Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 17:13

सत्यवेदः। Sanskrit NT in Devanagari

किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,

युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।

यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।

ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।

ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।

अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।

युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्