Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 16:17

सत्यवेदः। Sanskrit NT in Devanagari

ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।

किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।

एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।

किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।

अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।

तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?

तदा थोमा अवदत्, हे प्रभो भवान् कुत्र याति तद्वयं न जानीमः, तर्हि कथं पन्थानं ज्ञातुं शक्नुमः?

युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।

कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।

ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति

निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?

साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्