Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 16:15

सत्यवेदः। Sanskrit NT in Devanagari

पितु र्यद्यद् आस्ते तत् सर्व्वं मम तस्माद् कारणाद् अवादिषं स मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।

पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।

यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,

यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।

ये मम ते तव ये च तव ते मम तथा तै र्मम महिमा प्रकाश्यते।

त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।

पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।

यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं

यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।

यत ईश्वरस्य कृत्स्ना पूर्णता मूर्त्तिमती ख्रीष्टे वसति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्