Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 14:9

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।

रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

अहं पिता च द्वयोरेकत्वम्।

यो जनो मां पश्यति स मत्प्रेरकमपि पश्यति।

पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ।

यदि माम् अज्ञास्यत तर्हि मम पितरमप्यज्ञास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।

तदा तेऽपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितरञ्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत।

मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?

स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,

स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।

स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्