Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 14:7

सत्यवेदः। Sanskrit NT in Devanagari

यदि माम् अज्ञास्यत तर्हि मम पितरमप्यज्ञास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

21 अन्तरसन्दर्भाः  

पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।

पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।

कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।

यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।

ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।

हे पितस्तेषां सर्व्वेषाम् एकत्वं भवतु तव यथा मयि मम च यथा त्वय्येकत्वं तथा तेषामप्यावयोरेकत्वं भवतु तेन त्वं मां प्रेरितवान् इति जगतो लोकाः प्रतियन्तु।

तदर्थं त्वं यं महिमानं मह्यम् अददास्तं महिमानम् अहमपि तेभ्यो दत्तवान्।

यथाहं तेषु तिष्ठामि तथा मयि येन प्रेम्ना प्रेमाकरोस्तत् तेषु तिष्ठति तदर्थं तव नामाहं तान् ज्ञापितवान् पुनरपि ज्ञापयिष्यामि।

यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति।

अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्।

मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।

य ईश्वराद् अजायत तं विना कोपि मनुष्यो जनकं नादर्शत् केवलः सएव तातम् अद्राक्षीत्।

तदा तेऽपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितरञ्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत।

य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।

स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्