Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 12:17

सत्यवेदः। Sanskrit NT in Devanagari

स इलियासरं श्मशानाद् आगन्तुम् आह्वतवान् श्मशानाञ्च उदस्थापयद् ये ये लोकास्तत्कर्म्य साक्षाद् अपश्यन् ते प्रमाणं दातुम् आरभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,

पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।

अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।

ये यिहूदीया मरियमा साकं गृहे तिष्ठन्तस्ताम् असान्त्वयन ते तां क्षिप्रम् उत्थाय गच्छन्तिं विलोक्य व्याहरन्, स श्मशाने रोदितुं याति, इत्युक्त्वा ते तस्याः पश्चाद् अगच्छन्।

त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।

ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।

यो जनोऽस्य साक्ष्यं ददाति स स्वयं दृष्टवान् तस्येदं साक्ष्यं सत्यं तस्य कथा युष्माकं विश्वासं जनयितुं योग्या तत् स जानाति।

यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः।

तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।

एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।

स चेश्वरस्य वाक्ये ख्रीष्टस्य साक्ष्ये च यद्यद् दृष्टवान् तस्य प्रमाणं दत्तवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्