Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 11:40

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;

तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।

यिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्।

ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।

ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।

वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।

य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्