Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 10:32

सत्यवेदः। Sanskrit NT in Devanagari

यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।

तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।

ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्।

यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।

यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत;

किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।

फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;

अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।

पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्