Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 1:29

सत्यवेदः। Sanskrit NT in Devanagari

परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

65 अन्तरसन्दर्भाः  

यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।

इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।

परेऽहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्

यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।

परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।

अनन्तरं त्रुतीयदिवसे गालील् प्रदेशिये कान्नानाम्नि नगरे विवाह आसीत् तत्र च यीशोर्माता तिष्ठत्।

ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।

तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।

यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।

फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां।

स शास्त्रस्येतद्वाक्यं पठितवान् यथा, समानीयत घाताय स यथा मेषशावकः। लोमच्छेदकसाक्षाच्च मेषश्च नीरवो यथा। आबध्य वदनं स्वीयं तथा स समतिष्ठत।

यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,

यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।

अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो

ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,

यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।

स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।

तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।

निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।

वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।

यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।

स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।

अपरं सो ऽस्माकं पापान्यपहर्त्तुं प्राकाशतैतद् यूयं जानीथ, पापञ्च तस्मिन् न विद्यते।

वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।

यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।

मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।

ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।

ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।

सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।

इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।

ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।

ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।

कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।

स सुचेलकः पवित्रलोकानां पुण्यानि। ततः स माम् उक्तवान् त्वमिदं लिख मेषशावकस्य विवाहभोज्याय ये निमन्त्रितास्ते धन्या इति। पुनरपि माम् अवदत्, इमानीश्वरस्य सत्यानि वाक्यानि।

नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।

परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।

अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।

अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।

पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।

अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।

ते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;

ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।

यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्