Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 1:21

सत्यवेदः। Sanskrit NT in Devanagari

तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।

तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।

तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।

सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।

तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?

तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?

अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।

एतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्