Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



याकूब 1:19

सत्यवेदः। Sanskrit NT in Devanagari

अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

54 अन्तरसन्दर्भाः  

किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।

यदि दायूद् तं प्रभूं वदति तर्हि कथं स तस्य सन्तानो भवितुमर्हति? इतरे लोकास्तत्कथां श्रुत्वाननन्दुः।

तस्माद् गृहमध्ये सर्व्वेषां कृते स्थानं नाभवद् द्वारस्य चतुर्दिक्ष्वपि नाभवत्, तत्काले स तान् प्रति कथां प्रचारयाञ्चक्रे।

तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।

किन्तु तदुपदेशे सर्व्वे लोका निविष्टचित्ताः स्थितास्तस्मात् ते तत्कर्त्तुं नावकाशं प्रापुः।

तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्

इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।

तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्।

तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।

प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।

अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु।

अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।

यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।

किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।

यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च।

हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।

हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।

अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।

हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।

हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।

एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।

हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।

हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति

यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्