Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



इब्रानियों 9:23

सत्यवेदः। Sanskrit NT in Devanagari

अपरं यानि स्वर्गीयवस्तूनां दृष्टान्तास्तेषाम् एतैः पावनम् आवश्यकम् आसीत् किन्तु साक्षात् स्वर्गीयवस्तूनाम् एतेभ्यः श्रेष्ठेै र्बलिदानैः पावनमावश्यकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

14 अन्तरसन्दर्भाः  

एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?

ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;

यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।

अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।

यत एतानि छायास्वरूपाणि किन्तु सत्या मूर्त्तिः ख्रीष्टः।

व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।

यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।

ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।"

तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?

यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।

अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्