Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



इब्रानियों 12:24

सत्यवेदः। Sanskrit NT in Devanagari

नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

24 अन्तरसन्दर्भाः  

तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।

यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।

अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।

जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।

अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।

नैकस्य मध्यस्थो विद्यते किन्त्वीश्वर एक एव।

यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः

अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।

अपरं प्रथमजातानां हन्ता यत् स्वीयलोकान् न स्पृशेत् तदर्थं स विश्वासेन निस्तारपर्व्वीयबलिच्छेदनं रुधिरसेचनञ्चानुष्ठितावान्।

विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।

अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो

"परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।"

अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्।

किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्।

किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।

स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्।

फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,

तद्वत् स दूष्येऽपि सेवार्थकेषु सर्व्वपात्रेषु च रुधिरं प्रक्षिप्तवान्।

पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्