Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



गलातियों 1:18

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

8 अन्तरसन्दर्भाः  

पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।

अपरम् आन्तियखियानगरं पितर आगतेऽहं तस्य दोषित्वात् समक्षं तम् अभर्त्सयं।

ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?

किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।

अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्