Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



इफिसियों 5:19

सत्यवेदः। Sanskrit NT in Devanagari

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः।

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि।

हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु।

अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्