Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



इफिसियों 3:3

सत्यवेदः। Sanskrit NT in Devanagari

अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

23 अन्तरसन्दर्भाः  

ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,

ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।

ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।

हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;

पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,

आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।

अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।

अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।

अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते।

अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,

कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि।

अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां

फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते।

प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,

हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्।

यः सिल्वानो (मन्ये) युष्माकं विश्वास्यो भ्राता भवति तद्वाराहं संक्षेपेण लिखित्वा युष्मान् विनीतवान् यूयञ्च यस्मिन् अधितिष्ठथ स एवेश्वरस्य सत्यो ऽनुग्रह इति प्रमाणं दत्तवान्।

अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्