Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



इफिसियों 2:9

सत्यवेदः। Sanskrit NT in Devanagari

तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

9 अन्तरसन्दर्भाः  

अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।

अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।

स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।

तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं

अतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते।

सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्