Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



कुलुस्सियों 3:25

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु यः कश्चिद् अनुचितं कर्म्म करोति स तस्यानुचितकर्म्मणः फलं लप्स्यते तत्र कोऽपि पक्षपातो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

22 अन्तरसन्दर्भाः  

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।

तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।

तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन्

ईश्वरस्य विचारे पक्षपातो नास्ति।

यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।

अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति ज्ञायतां।

अपरञ्च हे अधिपतयः, यूयं दासान् प्रति न्याय्यं यथार्थञ्चाचरणं कुरुध्वं युष्माकमप्येकोऽधिपतिः स्वर्गे विद्यत इति जानीत।

एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।

यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च

तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।

यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,

अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।

ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्