Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



कुलुस्सियों 3:22

सत्यवेदः। Sanskrit NT in Devanagari

हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

22 अन्तरसन्दर्भाः  

लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।

यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।

अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ?

यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।

सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।

अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।

साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।

हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।

किन्त्वीश्वरेणास्मान् परीक्ष्य विश्वसनीयान् मत्त्वा च यद्वत् सुसंवादोऽस्मासु समार्प्यत तद्वद् वयं मानवेभ्यो न रुरोचिषमाणाः किन्त्वस्मदन्तःकरणानां परीक्षकायेश्वराय रुरोचिषमाणा भाषामहे।

पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्