Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



कुलुस्सियों 2:12

सत्यवेदः। Sanskrit NT in Devanagari

मज्जने च तेन सार्द्धं श्मशानं प्राप्ताः पुन र्मृतानां मध्यात् तस्योत्थापयितुरीश्वरस्य शक्तेः फलं यो विश्वासस्तद्वारा तस्मिन्नेव मज्जने तेन सार्द्धम् उत्थापिता अभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

31 अन्तरसन्दर्भाः  

तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।

तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।

किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।

अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।

यतोऽस्माकं पापनाशार्थं समर्पितोऽस्माकं पुण्यप्राप्त्यर्थञ्चोत्थापितोऽभवत् योऽस्माकं प्रभु र्यीशुस्तस्योत्थापयितरीश्वरे

हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।

यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।

इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।

यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।

यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं,

ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।

तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति।

युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः

एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"

यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,

एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।

स च युष्मान् अपराधैः शारीरिकात्वक्छेदेन च मृतान् दृष्ट्वा तेन सार्द्धं जीवितवान् युष्माकं सर्व्वान् अपराधान् क्षमितवान्,

यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।

अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम।

तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्