Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



कुलुस्सियों 1:7

सत्यवेदः। Sanskrit NT in Devanagari

अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

19 अन्तरसन्दर्भाः  

तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।

प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?

तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।

इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।

किञ्च धनाध्यक्षेण विश्वसनीयेन भवितव्यमेतदेव लोकै र्याच्यते।

अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।

ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्।

यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।

अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।

ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।

मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।

तम् ओनीषिमनामानञ्च युष्मद्देशीयं विश्वस्तं प्रियञ्च भ्रातरं प्रेषितवान् तौ युष्मान् अत्रत्यां सर्व्ववार्त्तां ज्ञापयिष्यतः।

एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।

अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।

ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा

अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।

मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्