Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



कुलुस्सियों 1:20

सत्यवेदः। Sanskrit NT in Devanagari

क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

22 अन्तरसन्दर्भाः  

यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।

सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥

तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्।

ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,

यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।

अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्