Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 9:43

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।

इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;

तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति।

सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।

सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;

अहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूढवान् तथा तेषामप्युपरि समवरूढवान्।

लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।

एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्