Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 9:30

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।

अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?

तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्

शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;

ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ।

ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।

ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।

फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।

तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;

ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्