Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 28:1

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं सर्व्वेषु रक्षां प्राप्तेषु तत्रत्योपद्वीपस्य नाम मिलीतेति ते ज्ञातवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

6 अन्तरसन्दर्भाः  

इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।

तस्येत्थं स्वप्नदर्शनात् प्रभुस्तद्देशीयलोकान् प्रति सुसंवादं प्रचारयितुम् अस्मान् आहूयतीति निश्चितं बुद्ध्वा वयं तूर्णं माकिदनियादेशं गन्तुम् उद्योगम् अकुर्म्म।

जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।

किन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः।

दिने जातेऽपि स को देश इति तदा न पर्य्यचीयत; किन्तु तत्र समतटम् एकं खातं दृष्ट्वा यदि शक्नुमस्तर्हि वयं तस्याभ्यन्तरं पोतं गमयाम इति मतिं कृत्वा ते लङ्गरान् छित्त्वा जलधौ त्यक्तवन्तः।

अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्