Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 27:6

सत्यवेदः। Sanskrit NT in Devanagari

तत्स्थानाद् इतालियादेशं गच्छति यः सिकन्दरियानगरस्य पोतस्तं तत्र प्राप्य शतसेनापतिस्तं पोतम् अस्मान् आरोहयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

5 अन्तरसन्दर्भाः  

तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्।

तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।

जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।

इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।

तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्