Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 27:2

सत्यवेदः। Sanskrit NT in Devanagari

वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः।

सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।

पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।

बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।

ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।

पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-

ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।

तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।

ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।

अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।

असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।

आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।

मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्