Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 24:1

सत्यवेदः। Sanskrit NT in Devanagari

पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्।

तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा

अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्।

पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं।

तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।

ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।

तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।

अद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता ज्ञातुं शक्यते;

ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि,

यिरूशालमि मम स्थितिकाले महायाजको यिहूदीयानां प्राचीनलोकाश्च तम् अपोद्य तम्प्रति दण्डाज्ञां प्रार्थयन्त।

तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त।

हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;

अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्,




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्