Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 23:10

सत्यवेदः। Sanskrit NT in Devanagari

तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?

ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।

तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्।

यिहूदीयलोकाः पूर्व्वम् एनं मानवं धृत्वा स्वहस्तै र्हन्तुम् उद्यता एतस्मिन्नन्तरे ससैन्योहं तत्रोपस्थाय एष जनो रोमीय इति विज्ञाय तं रक्षितवान्।

किन्निमित्तं ते तमपवदन्ते तज्ज्ञातुं तेषा सभां तमानायितवान्।

परेऽहनि तेन सह यातुं घोटकारूढसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्।

किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा

बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च

अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।

किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्