Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 22:24

सत्यवेदः। Sanskrit NT in Devanagari

ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

पीलातो यीशुम् आनीय कशया प्राहारयत्।

किन्तु पौलस्तान् अवदत् रोमिलोकयोरावयोः कमपि दोषम् न निश्चित्य सर्व्वेषां समक्षम् आवां कशया ताडयित्वा कारायां बद्धवन्त इदानीं किमावां गुप्तं विस्त्रक्ष्यन्ति? तन्न भविष्यति, स्वयमागत्यावां बहिः कृत्वा नयन्तु।

ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।

पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?

तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।

यिहूदीयलोकाः पूर्व्वम् एनं मानवं धृत्वा स्वहस्तै र्हन्तुम् उद्यता एतस्मिन्नन्तरे ससैन्योहं तत्रोपस्थाय एष जनो रोमीय इति विज्ञाय तं रक्षितवान्।

रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;

योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्