Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 20:19

सत्यवेदः। Sanskrit NT in Devanagari

फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

37 अन्तरसन्दर्भाः  

पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,

कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।

किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।

किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।

तत्र मासत्रयं स्थित्वा तस्मात् सुरियादेशं यातुम् उद्यतः, किन्तु यिहूदीयास्तं हन्तुं गुप्ता अतिष्ठन् तस्मात् स पुनरपि माकिदनियामार्गेण प्रत्यागन्तुं मतिं कृतवान्।

इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।

तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा

यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,

ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः

अपरम् ईश्वरस्य प्रसादाद् बहुकालात् परं साम्प्रतं युष्माकं समीपं यातुं कथमपि यत् सुयोगं प्राप्नोमि, एतदर्थं निरन्तरं नामान्युच्चारयन् निजासु सर्व्वप्रार्थनासु सर्व्वदा निवेदयामि,

तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।

वस्तुतस्तु बहुक्लेशस्य मनःपीडायाश्च समयेऽहं बह्वश्रुपातेन पत्रमेकं लिखितवान् युष्माकं शोकार्थं तन्नहि किन्तु युष्मासु मदीयप्रेमबाहुल्यस्य ज्ञापनार्थं।

वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।

अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि।

साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।

मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं।

यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते।

यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं

यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये

हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।

तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।

ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।

तत्कारणात् त ईश्वरस्य सिंहासनस्यान्तिके तिष्ठन्तो दिवारात्रं तस्य मन्दिरे तं सेवन्ते सिंहासनोपविष्टो जनश्च तान् अधिस्थास्यति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्