Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 2:31

सत्यवेदः। Sanskrit NT in Devanagari

इति ज्ञात्वा दायूद् भविष्यद्वादी सन् भविष्यत्कालीयज्ञानेन ख्रीष्टोत्थाने कथामिमां कथयामास यथा तस्यात्मा परलोके न त्यक्ष्यते तस्य शरीरञ्च न क्षेष्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

7 अन्तरसन्दर्भाः  

अपरञ्च बत कफर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्।

एतदन्यस्मिन् गीतेऽपि कथितवान्। स्वकीयं पुण्यवन्तं त्वं क्षयितुं न च दास्यसि।

परलोके यतो हेतोस्त्वं मां नैव हि त्यक्ष्यसि। स्वकीयं पुण्यवन्तं त्वं क्षयितुं नैव दास्यसि। एवं जीवनमार्गं त्वं मामेव दर्शयिष्यसि।

श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।

ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्