Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 18:8

सत्यवेदः। Sanskrit NT in Devanagari

ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

25 अन्तरसन्दर्भाः  

अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।

अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;

इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि?

स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।

ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।

व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।

पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।

तद्घटनातः परं पौल आथीनीनगराद् यात्रां कृत्वा करिन्थनगरम् आगच्छत्।

तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।

करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,

किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।

तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति।

ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।

अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।

हे करिन्थिनः, युष्माकं प्रति ममास्यं मुक्तं ममान्तःकरणाञ्च विकसितं।

इरास्तः करिन्थनगरे ऽतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्