Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 17:22

सत्यवेदः। Sanskrit NT in Devanagari

पौलोऽरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

8 अन्तरसन्दर्भाः  

ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।

पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो ऽभवत्।

ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;

तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये ऽरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्।

ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?

स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्