Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 13:4

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

7 अन्तरसन्दर्भाः  

स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।

ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।

ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।

कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।

किन्तु मया बन्धनं क्लेशश्च भोक्तव्य इति पवित्र आत्मा नगरे नगरे प्रमाणं ददाति।

तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।

विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्