Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 13:29

सत्यवेदः। Sanskrit NT in Devanagari

तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

अथासादनदिनस्यार्थाद् विश्रामवारात् पूर्व्वदिनस्य सायंकाल आगत

तदा यिहूदीयानां मन्त्रणां क्रियाञ्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो

पश्चाद् वपुरवरोह्य वाससा संवेष्ट्य यत्र कोपि मानुषो नास्थाप्यत तस्मिन् शैले स्वाते श्मशाने तदस्थापयत्।

कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।

अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता।

तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्।

यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।

तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।

तथापि ख्रीष्टो दुःखं भुक्त्वा सर्व्वेषां पूर्व्वं श्मशानाद् उत्थाय निजदेशीयानां भिन्नदेशीयानाञ्च समीपे दीप्तिं प्रकाशयिष्यति

ऽन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्।

यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य

श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्