Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 12:8

सत्यवेदः। Sanskrit NT in Devanagari

स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

7 अन्तरसन्दर्भाः  

अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।

मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं।

यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।

एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।

ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।

यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,

ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो ऽसानगरं याति तं मार्गं गच्छ।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्