Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 10:17

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,

अध्यायं द्रष्टव्यम् प्रतिलिपि

9 अन्तरसन्दर्भाः  

इत्थं यीशुस्तेषां पादान् प्रक्षाल्य वस्त्रं परिधायासने समुपविश्य कथितवान् अहं युष्मान् प्रति किं कर्म्माकार्षं जानीथ?

एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।

इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?

ततोहं तादृग्विचारे संशयानः सन् कथितवान् त्वं यिरूशालमं गत्वा किं तत्र विचारितो भवितुम् इच्छसि?

एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।

तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि।

अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।

विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्