Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 तीमुथियु 4:11

सत्यवेदः। Sanskrit NT in Devanagari

केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

किन्तु अग्रीया अनेके जनाः पश्चात्, पश्चातीयाश्चानेके लोका अग्रे भविष्यन्ति।

इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।

पश्यतेत्थं शेषीया लोका अग्रा भविष्यन्ति, अग्रीया लोकाश्च शेषा भविष्यन्ति।

स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।

तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।

तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,

इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;

तस्येत्थं स्वप्नदर्शनात् प्रभुस्तद्देशीयलोकान् प्रति सुसंवादं प्रचारयितुम् अस्मान् आहूयतीति निश्चितं बुद्ध्वा वयं तूर्णं माकिदनियादेशं गन्तुम् उद्योगम् अकुर्म्म।

आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।

लूकनामा प्रियश्चिकित्सको दीमाश्च युष्मभ्यं नमस्कुर्व्वाते।

आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।

अतो यदि कश्चिद् एतादृशेभ्यः स्वं परिष्करोति तर्हि स पावितं प्रभोः कार्य्ययोग्यं सर्व्वसत्कार्य्यायोपयुक्तं सम्मानार्थकञ्च भाजनं भविष्यति।

मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।

युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्