Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 तीमुथियु 2:13

सत्यवेदः। Sanskrit NT in Devanagari

यदि वयं न विश्वासामस्तर्हि स विश्वास्यस्तिष्ठति यतः स्वम् अपह्नोतुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते।

कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?

ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।

य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।

यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।

किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।

यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलोऽहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।

अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्