Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 तीमुथियु 1:15

सत्यवेदः। Sanskrit NT in Devanagari

आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

10 अन्तरसन्दर्भाः  

तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।

इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।

तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यतेे।

पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्।

पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-

यतः पौल आशियादेशे कालं यापयितुम् नाभिलषन् इफिषनगरं त्यक्त्वा यातुं मन्त्रणां स्थिरीकृतवान्; यस्माद् यदि साध्यं भवति तर्हि निस्तारोत्सवस्य पञ्चाशत्तमदिने स यिरूशालम्युपस्थातुं मतिं कृतवान्।

युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत।

यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।

मम प्रथमप्रत्युत्तरसमये कोऽपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्;




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्