Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 पतरस 2:2

सत्यवेदः। Sanskrit NT in Devanagari

ततो ऽनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

36 अन्तरसन्दर्भाः  

हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।

अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।

त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?

यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।

यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।

हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?

किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।

सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।

एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्।

किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्।

मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।

किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।

शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।"

अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।

विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।

निर्द्दोषञ्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।

देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।

किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।

ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,

ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।

तेषां पक्षे धर्म्मपथस्य ज्ञानाप्राप्ति र्वरं न च निर्द्दिष्टात् पवित्रविधिमार्गात् ज्ञानप्राप्तानां परावर्त्तनं।

किन्तु तैः कुत्सितव्यभिचारिभि र्दुष्टात्मभिः क्लिष्टं धार्म्मिकं लोटं रक्षितवान्।

किन्त्विमे यन्न बुध्यन्ते तन्निन्दन्ति यच्च निर्ब्बोधपशव इवेन्द्रियैरवगच्छन्ति तेन नश्यन्ति।

सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥

यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।

अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।

अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।

तस्य पशोः साक्षाद् येषां चित्रकर्म्मणां साधनाय सामर्थ्यं तस्मै दत्तं तैः स पृथिवीनिवासिनो भ्रामयति, विशेषतो यः पशुः खङ्गेन क्षतयुक्तो भूत्वाप्यजीवत् तस्य प्रतिमानिर्म्माणं पृथिवीनिवासिन आदिशति।

ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्