Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 पतरस 1:14

सत्यवेदः। Sanskrit NT in Devanagari

यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि।

अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि।

अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।

मम प्राणानाम् उत्सर्गो भवति मम प्रस्थानकालश्चोपातिष्ठत्।

यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्