Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 कुरिन्थियों 8:20

सत्यवेदः। Sanskrit NT in Devanagari

यतो या महोपायनसेवास्माभि र्विधीयते तामधि वयं यत् केनापि न निन्द्यामहे तदर्थं यतामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

9 अन्तरसन्दर्भाः  

पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।

अपरं युष्माकम् उत्तमं कर्म्म निन्दितं न भवतु।

ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि।

ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति।

प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत।

यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।

अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।

यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्