Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 कुरिन्थियों 7:1

सत्यवेदः। Sanskrit NT in Devanagari

अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

48 अन्तरसन्दर्भाः  

पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।

तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।

निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।

अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।

यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।

ईश्वरस्य महिमा यद् अस्माभिः प्रकाशेत तदर्थम् ईश्वरेण यद् यत् प्रतिज्ञातं तत्सर्व्वं ख्रीष्टेन स्वीकृतं सत्यीभूतञ्च।

तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।

अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।

यस्माद् ईश्वरोऽस्मान् अशुचितायै नाहूतवान् किन्तु पवित्रत्वायैवाहूतवान्।

शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।

स्वर्गे लिखितानां प्रथमजातानाम् उत्सवः समितिश्च सर्व्वेषां विचाराधिपतिरीश्वरः सिद्धीकृतधार्म्मिकानाम् आत्मानो

अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।

हे प्रियतमाः, यद्यपि वयम् एतादृशं वाक्यं भाषामहे तथापि यूयं तत उत्कृष्टाः परित्राणपथस्य पथिकाश्चाध्व इति विश्वसामः।

ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।

यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।

अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।

यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।

हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।

क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।

किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।

यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।

तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्