Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 कुरिन्थियों 5:16

सत्यवेदः। Sanskrit NT in Devanagari

अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

19 अन्तरसन्दर्भाः  

यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।

अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।

तदा स तामवोचत् हे नारि मया सह तव किं कार्य्यं? मम समय इदानीं नोपतिष्ठति।

आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।

यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।

अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये।

ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।

किन्तु शरीरे मम प्रगल्भतायाः कारणं विद्यते, कश्चिद् यदि शरीरेण प्रगल्भतां चिकीर्षति तर्हि तस्माद् अपि मम प्रगल्भताया गुरुतरं कारणं विद्यते।

तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।

किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्