Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 कुरिन्थियों 3:8

सत्यवेदः। Sanskrit NT in Devanagari

तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

24 अन्तरसन्दर्भाः  

मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।

ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।

यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?

अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।

यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः।

तेन वयं नूतननियमस्यार्थतो ऽक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः।

अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत,

दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति।

तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।

यतो वयम् आत्मना विश्वासात् पुण्यलाभाशासिद्धं प्रतीक्षामहे।

यतस्तस्माद् उभयपक्षीया वयम् एकेनात्मना पितुः समीपं गमनाय सामर्थ्यं प्राप्तवन्तः।

हे प्रभोः प्रिया भ्रातरः, युष्माकं कृत ईश्वरस्य धन्यवादोऽस्माभिः सर्व्वदा कर्त्तव्यो यत ईश्वर आ प्रथमाद् आत्मनः पावनेन सत्यधर्म्मे विश्वासेन च परित्राणार्थं युष्मान् वरीतवान्

पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्