Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 कुरिन्थियों 2:16

सत्यवेदः। Sanskrit NT in Devanagari

वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

9 अन्तरसन्दर्भाः  

ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति।

पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।

यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।

एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्