Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



2 कुरिन्थियों 10:7

सत्यवेदः। Sanskrit NT in Devanagari

यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

21 अन्तरसन्दर्भाः  

केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;

ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।

सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।

ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।

यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।

किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।

यूयञ्च ख्रीष्टस्य, ख्रीष्टश्चेश्वरस्य।

अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?

युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।

अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये।

ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्।

अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।

एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।

ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।

अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।

किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।

वयम् ईश्वरात् जाताः, ईश्वरं यो जानाति सोऽस्मद्वाक्यानि गृह्लाति यश्चेश्वरात् जातो नहि सोऽस्मद्वाक्यानि न गृह्लाति; अनेन वयं सत्यात्मानं भ्रामकात्मानञ्च परिचिनुमः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्