Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 तीमुथियुस 6:21

सत्यवेदः। Sanskrit NT in Devanagari

यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

13 अन्तरसन्दर्भाः  

अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।

तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।

अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।

तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।

अहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।

विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।

केचित् जनाश्च सर्व्वाण्येतानि विहाय निरर्थककथानाम् अनुगमनेन विपथगामिनोऽभवन्,

यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।

मृतानां पुनरुत्थिति र्व्यतीतेति वदन्तौ केषाञ्चिद् विश्वासम् उत्पाटयतश्च।

प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। आमेन्।

मम सङ्गिनः सव्वे त्वां नमस्कुर्व्वते। ये विश्वासाद् अस्मासु प्रीयन्ते तान् नमस्कुरु; सर्व्वेषु युष्मास्वनुग्रहो भूयात्। आमेन्।

अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। आमेन्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्